Shadhuh gopal krushnah in sanskrit

Shadhuh gopal krushnah in sanskrit .



 स्वाधीनताया: पूर्वघटना । एकस्मिन् विद्यालये बहवः छात्रा: पठन्ति स्म । एकदा शिक्षक: छात्राणां परीक्षां कर्तुं चिन्तितवान् । सः छात्रान्

पृष्टवान् - "प्रियशिष्या: ! यूयं परीक्षार्थं प्रस्तुता: ?' छात्रा: प्रस्तुता: इति कथितवन्तः । शिक्षकः सूचितवान् - "यूयं सर्वे परीक्षापुस्तिका लेखनी च उन्मोचयत" ।

छात्राः परीक्षापुस्तिका लेखनी च उन्मोचितवन्तः । शिक्षक:

कृष्णफलके प्रश्नान् लिखितवान् । छात्रा: उत्तराणि लिखित्वा दर्शितवन्तः।

तेषु गोपालकृष्णगोखले अपि आसीत् । शिक्षक: उत्तराणां मूल्याङ्कनं कृत्वा गोपालकृष्णम् आहूतवान् - "अरे गोपाल ! त्वम् अत्र आगच्छ।" गोपाल:

शिक्षकस्य समीपं गतवान् । शिक्षक: कथितवान्- "अरे ! त्वया तु सम्यक् लिखितम् । त्वत् अधिकम्

कोऽपि न लिखितवान् । अत: तुभ्यम् एकं पुरस्कारं दातुम् इच्छामि । भो : छात्राः ! युष्मासु एषः गोपाल:

श्रेष्ठः । एषः परीक्षायां सम्यक् लिखितवान् ।"

शिक्षकस्य वचनं श्रुत्वा गोपालस्य मुखं म्लानम् अभवत् । तत् दृष्ट्वा शिक्षक: पृष्टवान् - 'अरे गोपाल !

तव मुखं किमर्थं म्लानं दृश्यते ?' गोपालः कथितवान् - "गुरुदेव ! पुरस्कार प्राप्तुम् अहम् अयोग्यः ।

परीक्षायाम् अहं मित्रस्य साहाय्यं नीतवान् । अहम् अतीव लज्जितः । अहं दण्डनीयः ।'' इति कथयन् स:

उच्चैः क्रन्दितवान् । तस्य क्रन्दनं श्रुत्वा छात्रा: अपि वन्दितवन्तः ।

एतादृशेन सत्यवचनेन शिक्षक: सन्तुष्टः । स: गोपालम् आलिङ्ग्य कथितवान् - 'साधु बालक! साधु ।

एषः पुरस्कार : तव एव । तब सत्यनिष्ठाया: कृते एष: दीयते । त्वं सत्यवादी । अत: अहं त्वयि अतीव

स्निह्यामि । आगामिकाले त्वं भारतस्य महान् सेवक; भविष्यसि । सर्वे चिरकालं त्वां स्मरिष्यन्ति ।

.


Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post