chaturah baanarah

  

चतुरः बानरः chaturah baanarah


 एकस्या: नद्या: तीरे एक: जम्बुवृक्ष: आसीत् । वृक्षस्य शाखायाम् एकः वानर: अवसत् । स पक्वफलानां भक्षणम् अकरोत् ।

एकदा एक: मकर: वृक्षमूलम् आगच्छत्। वानर: मकरस्य कृते पक्वानि फलानि अददात् । स: मकर: कानिचन फलानि अखादत्। कानिचन भार्यायाः कृते गृहम् अनयत् । तस्य भार्या मकरं प्रति अकथयत् - "अहो जम्बुफलानि मधुराणि। यः प्रतिदिनं मधुराणि फलानि खादति, तस्य हृदयम् अवश्यं मधुरम् । भो पतिदेव ! अहं तस्य वानरस्य हृदयम् इछामि"।


अपरस्मिन् दिवसे मकरः पुनः वृक्षमूलम् आगच्छत् । सः वानरं प्रति अकथयत् "मित्र ! मम भार्या तव निमन्त्रणम् अकरोत् । आगच्छ, मम पृष्ठदेशे उपविश । अहं तत्र त्वां नयामि।


वानर: मकरपृष्ठम् आरोहत्। नदीमध्ये मकरः अवदत् - "मित्र! सत्यं वदामि । मम भार्या तव हृदयम् इच्छति ।"


वानर चकितः अभवत्, इष्टम् अस्मरत्। विचारम् अकरोत् । पुन: अकथयत्- “मम प्रियमित्र ! पूर्वं कथं न अवदत् ? हृदयं वृक्षस्य कोटरे अस्ति । अधुना तत्र मां नय। तत् आनयामि । अत्र पुनः आगच्छावः ।"


तत: मकर: वानरं वृक्षमूलम् अनयत् । झटिति वानर: वृक्षस्य उपरि आगछत् । मूर्ख: मकर: निराश: अभवत्। वानर: कौशलेन स्वप्राणान् अरक्षत्।


Thank you

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post