Gurujanasya aadeshah

 

 Gurujanasya aadeshah.


गुरुजनस्य आदेश:


पिता मातरं वदति - "अद्य रविवासरः । पुत्रः रमेशः विद्यालयं न गमिष्यति । अहं यथा वदामि तथा कुरु । त्वं तस्मै पञ्चाशत् रूप्यकाणि देहि । सः विपणिं गच्छतु । पूजानिमित्तं पुष्पं फलं मिष्टान्नं च आनयतु । ततः सानं करोतु । गृहदेवतां पूजयतु । पूजान्ते भागवतं पठतु।


माता कन्यां वदति - सुजाते ! अद्य भ्राता देवपूजां करिष्यति । त्वम्उ द्यानं गच्छ । उद्यानात् पुष्पाणि आनय । पुष्पैः माल्यं रचय । जलेन देवगृहं मार्जय । घृतेन दीपं पूरय । पूजासमये भ्रातुः साहाय्यं कुरु । अहं पाकशालां गच्छानि । रन्धनस्य आयोजनं करवाणि।

पितामहः रमेशं सुजातां च वदति युवाम् अत्र आगच्छतम् । मम वचनंशृणुतम्, मम गतकालस्य भजनं समाप्तं भवति । युवांमया सह प्रार्थनां गायतम् । ततः सर्वे मिलित्वा प्रार्थनां गायन्ति-

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।

सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग् भवेत् ।


Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post