Dilipasya putra labhah

  Dilipasya putra labhah.


पूर्वकाले अयोध्यायाम् इक्ष्वाकुः नाम नृपतिः आसीत् । इक्ष्वाको.वंशधरः राजा दिलीपः । दिलीपः वीरः, वदान्यः, सहिष्णुः, दयालुः,प्रजानां बन्धुः, विष्णो:भक्तः च आसीत् । सः प्रतिदिनं विष्णु पूजयति । भिक्षुभ्यः दानं ददाति । साधूनां सुरक्षां करोति। असाधून दण्डयति । मधुरव्यवहारेण शत्रूणाम् अपि हृदयं जयति । किन्तु सः पुत्रहीनः अभवत् । पुत्रलाभाय सर्वदाप्रभोः पादतले प्रार्थनाम् अकरोत ।

दिलीपस्य पत्नी सुदक्षिणा । एकदा दिलीप: पत्न्या सह गुरोः वशिष्ठस्य आश्रमम् अगच्छत् । गुरवे निजदुःखं निवेदयति स्म । आश्रमे नन्दिनीनाम्नी धेनु: आसीत् । गुरोः उपदेशेन दिलीप: सुदक्षिणा च नन्दिन्या: सेवाम् अकुरुताम् । नन्दिन्या: वरेण दिलीप: पुत्रलाभम्अ करोत् । पुत्रस्य नाम रघुः ।

शिशोः पुत्रस्य शैशवलीलया दिलीपः सुदक्षिणा प्रजाः च आनन्दिताः अभवन् । गुरु: वशिष्ठः रघोः शिक्षाभारम् अनयत् । 


Thank you


Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post