Ekata me bala he in sanskrit story

 

 Ekata me bala  he in sanskrit story. 




◇ एकता हि बलम्◇

अस्ति कश्चित् ग्रामः । तस्मिन् ग्रामे एकः धनिकः निवसति । तस्य नाम गोपालः । तस्य पुत्रस्य नाम लम्बोदरः । लम्बोदरस्य विवाहसमयः आगच्छति । तस्य बन्धुजनाः सुन्दराणि वस्त्राणि, विविधान् अलङ्कारान्  च  धारयित्वा कन्यादर्शनाय गच्छन्ति।

मार्गे केचन चौरा: आगच्छन्ति । गोपालः तान् दूरात् पश्यति । सः चिन्तयति- “वयं किं करिष्यामः ?" इति । सः सर्वान् निजबन्धुजनान् कथयति- “भोः ! जागरुकाः भवन्तु, प्रायशः चौराः आगच्छन्ति । ते अस्माकं समीपात् धनम् अलङ्कारान् च अपहरिष्यन्ति । अतः वयं सर्वे मिलित्वा तेषां विरोधं करिष्यामः । नोचेत् अस्माकं हानिः भविष्यति ।"

क्रमशः चौरा: समीपम् आगच्छन्ति । ते वदन्ति - “सर्वे अत्रैव तिष्ठन्तु । यदि कोऽपि स्वस्थानात् चलिष्यति तर्हि मृत्युमुखं गमिष्यति।"

गोपालस्य सर्वे बन्धुजना: कौशलेन वृत्ताकारेण अतिष्ठन् । गोपाल: चौरान् अवदत् - "अस्मान् त्यजन्तु । अस्माकं समीपे यत् अस्ति, तत  सर्व नयन्तु।' इति।


धनलोभन चौरा: वृत्तमध्य गच्छन्ति । तदा गोपालः सर्वेषां कृते निर्देश ददाति । सर्वे शीघ्रम् एव तान आयतान कुर्वन्ति, तथा ताड़यन्ति । तत: चौरा: भयेन आत्मसमर्पण कुर्वन्ति ।

एकताबलेन तेषां प्राणरक्षा धनरक्षा च अभवताम् । अतः नीतिकारः

वदति-

“संहतिः कार्यसाधिका" ||


Thank you


Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post