Samayanu bartita in sanskrit .
माधव: ग्रामविद्यालये पाठं समाप्य उच्चविद्यालयमगच्छत् । एकस्मिन् आवासिक- विद्यालये नामोल्लेखमकरोत् । पिता विद्यालयस्य छात्रावासे स्थातुं व्यवस्थां कृत्वा सर्वाणि साधनानि तस्मै दत्तवान् ।
विद्यालयस्य प्रथमदिवसः । पूर्वस्यां रात्रौ सूचना प्राप्तवान् नववादने कक्षारम्भः । माधवः विद्यालयं गन्तुं यदा सज्जी भवति तदा नववादनमभवत् । अनन्तरं सः मन्दं मन्दं विद्यालयमगच्छत् । यावदसौ कक्षासमीपमगच्छत्ता वत् सर्वे छात्राः कक्षायामुपस्थिताः आसन्, paathaस्यारम्भः अपि अभवत् । shikshakah तस्मै कक्षायामुपवेष्टुमनुमतिं प्राददात् । parantu अवदत् -
भो: chhatra ! भवान् यथाकालमागच्छतु ।
अपरेयुः यथासमयं कक्षां प्राप्तुमसौ
चेष्टामकरोत् । तथापि वेनापि कारणेन
विलम्बोऽभवत् । स पुनश्च दशनिमेषविलम्बन
कक्षामागच्छत् । शिक्षकः पुनरपि अवदत्-वत्स !
भवान् यथाकालं नागच्छति इति महत् दुःखम् ।
छात्राणां पुरतः सः वारं वारं लज्जित:
अपमानितश्चाभवत् । स व्यचिन्तयत् - तमन्तरेण
अन्यः न कश्चित् छात्र: विलम्बेन आगच्छति । अत:
तृतीयदिवसे बहुप्रयासेन पञ्चदशनिमेषेभ्यः पूर्वमेव
विद्यालयमगच्छत् ।
यदा विद्यालयमपश्यत् तदा विद्यालयस्य
मुख्यद्वार पिहितमासीत् । एकोऽपि छात्र: शिक्षको वा
न तत्रासीत् । साक्षात् पञ्चोननववादने विद्यालयस्य
सेवकः आगच्छत् द्वारमुदघाटयत् च । क्रमेण सर्वे
छात्रा: शिक्षकाश्च समागताः । साक्षात् नववादने
घण्डानादः जातः । अनन्तरं पाठस्यारम्भ: । एकोऽपि
छात्र: विलम्बेन नागच्छत् । माधवः तद्दिने प्रसन्न:
आसीत् । यतः स: पूर्वमेव आगतवान् । सः विस्मितः
अभवत् - शिक्षक: पुनरवदत् - भवतः समयज्ञानं
नास्ति ।
माधवोऽवदत् - श्रीमन् ! अद्याहं विलम्बन
नागच्छामि । पञ्चदशनिमेषेभ्यः पूर्वमागच्छामि ।
Tathapi भवान् एवं badati । मम मनसि दुःखम् ।
शिक्षक: सस्मितं बोधयति - विलम्बेन आगमनं तु
न साधु । पञ्चदशनिमेषभ्यः पूर्वम् आगमनमपि न
साधु । पूर्वमागत्य किं कृतम् ? द्वारमभित: अवस्थानं
कृतम् । तस्मिन् समये स्वप्रकोष्ठे किञ्चित् अध्ययनं
कर्तुं शक्यम् ।
एतत् श्रुत्वा लज्जित: माधव: शिक्षकस्य
समीपे क्षमायाचनां कृतवान् । समयस्य मूल्यं च
ज्ञातवान् । अन्यस्मिन् काले सर्वदा समयस्य
परिपालनं तस्य महान् गुणः अभवत् ।
गच्छता कालेन शास्त्राध्ययनं कृत्वा स
अवगतवान् यत्, अस्माकं भारतवर्षे यत् पञ्चाङ्गं
प्रचलति तत् सर्वं भारतीयसमयगणनानुसारेण भवति ।