Sushishya upamanyu sanskrit story

Sushishya upamanyu sanskrit story.



 आसीत् धौम्यस्य ऋषेः उपमन्युर्नामशिष्यः । उपाध्यायस्तं गोरक्षणाय प्रेषयति स्म । स उपाध्यायवचनाद् दिवा गा: रक्षित्वा दिवसक्षये उपाध्यायस्याग्रत: स्थित्वा नमश्चकार ।


गुरुस्तं हृष्टपुष्टं दृष्ट्वा उवाच - "वत्स !

केन वृत्तिं करोषि ?"


उपमन्युः गुरुं प्रत्यवादीत् - "भैक्ष्येण वृत्ति करोमि ।"

तमुपाध्यायः प्रत्युवाच - “मह्यमनिवेद्य

भैक्ष्यं त्वया न भोक्तव्यम् ।"


तत: उपमन्युः 'तथा' इत्युक्त्वा गुरवे सर्वं भैक्ष्यं न्यवेदयत् । उपाध्यायः तस्मादेव सर्वं भैक्ष्यमगृह्णात् ।


अथाऽन्येद्युः सः अहनि गा: रक्षित्वा निशामुखे गुरोः पुरतः स्थित्वा नमश्चकार । तमुपाध्यायः तथापि हृष्टपुष्टं दृष्ट्वा उवाच -“केन इदानीं वृत्तिं करोषि ?' उपमन्युः उपाध्याय प्रत्यभाषत "भवते पूर्व भक्ष्यं निवेद्य अपरं चरामि । तेन वृत्तिं करोमि ।'



तं गुरुः प्रत्यवदत् - "नैतत् न्याय्यम्, एतेन अन्येषां भैक्ष्योपजीविनां वृत्त्युपरोधं करोषि । एवं न कर्त्तव्यम् ।

 "अथ उपमन्युः वृत्त्यर्थं यान् यानुपायान  अकरोत्, गुरुस्तं सर्वेभ्यः न्यवारयत् । एवं प्रतिषिद्धः स कदाचिदरण्ये क्षुधातः भ्रमन्  अर्कपत्राण्यभक्षयत् । तैः भक्षितैः दृष्टिहीन: संजातः । ततः स गच्छन् एकस्मिन् कूपे अपतत् ।


अथ तस्मिन् अनागते सूर्ये च अस्तं गते गुरुः अन्यान् शिष्यानवदत् । - "मया सर्वत:। प्रतिषिद्धः स नियतं कुपित: नागच्छति । तस्मा त्सोऽन्विष्यताम्' इत्युक्त्वा शिष्यैः सार्द्धमरण्यं गत्वा तम् आहूतवान् - 'भो ! उपमन्यो ! कुत्रासि ? वत्स ! एहीति ।"



उपाध्यायस्तम्अपृच्छत् "कथं त्वमस्मिन्  कुपे पतितोऽसि ?"



स प्रत्यभाषत – “अर्कपत्राणि भक्षयित्वा नयनाभ्यामन्धः सन् भ्रमन् अस्मिन् कूपे पतितोऽहम् ।

तमुपाध्याय: प्रत्युवाच “वत्स !

गुरुणा एवमुक्तः स अश्विनीकुमारौ स्तुतवान् ।अथ तस्य स्तुत्या प्रसन्नौ अश्विनीकुमारौ तत्र उपस्थाय उपमन्युं प्राहतुः

"वत्स ! इममपूपं भक्षय ।"

उपमन्युः अवदत् “गुरवे अनिवेद्य इममपूपं न भक्षयिष्यामि ।"


अथअश्विनीकुमारौ आहतुः “वत्स ! आवां ते अनया गुरुभक्त्या अतीव प्रीतौ स्व: । चक्षुष्मान्  भव । श्रेयस्ते भविष्यति, यशस्वी भव ।"


तत: उपमन्युः लब्धचक्षुः उपाध्यायं निकषा आगत्य प्राणमत् सर्वमवदच्च । उपाध्याय: तस्मिन्  प्रीतिमान् भूत्वा अवदत् - "वत्स ! अश्विनीकुमारौ यथा आहतुः तथा ते श्रेयो भविष्यति, सर्वे वेदाः सर्वाणि धर्मशास्त्राणि ते प्रतिभास्यन्ति । त्वमेव सर्वशास्त्रज्ञः भविष्यसि ।"

उपाध्यायवचनात् उपमन्युः तथैव अभवत् ।

अत: साधूक्तम्-गुरुभक्त्या किं न सिध्यति ?


Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post