sinha shrugal shishu katha in sanskrit

Sinha shrugal shishu katha in sanskrit. 



 कस्मिंश्चिद् देशे सिंहदम्पती प्रतिवसतः

स्म । अथ सिंही पुत्रद्वयमजीजनत्, सिंहोऽपि

नित्यमेव मृगान् व्यापाद्य सिंझै ददाति ।

अन्यस्मिन्नहनि तेन किमपि सत्त्वं नासादितम् ।

◇.....◇

स्वगृहमागच्छता शृगालशिशुः प्राप्तः । तं च

बालोऽयमिति अवधार्य यत्नेन दंष्ट्रामध्यगतं

कृत्वा सिंधै जीवन्तमेव समर्पितवान् । ततः

सिंह्याऽभिहितम्- “भो कान्त ! त्वयानीतं

किञ्चिदस्माकं भोजनम् ?' सिंह आह- "प्रिये !

मया अद्य एनं शृगालशिशुं परित्यज्य न किञ्चित्

सत्त्वं समासादितम्, स च बालोऽयमिति मत्वा न

व्यापादितः । इदानीं त्वमेनं भक्षयित्वा पथ्यं कुरु ।

प्रभातेऽन्यत् किञ्चित् उपार्जयिष्यामि।' सा प्राह

- “भोकान्त ! त्वया बालोऽयं विचिन्त्य न हतः ।



तत् कथमेतमहं स्वोदरार्थे विनाशयामि ।

उक्तञ्च

अकृत्यं नैव कर्त्तव्यं प्राणत्यागेऽपि संस्थिते ।

◇...........◇

तस्मान्ममायं तृतीयः पुत्रो भविष्यति ।"

इत्येवमुक्त्वा तमपि स्वस्तनक्षीरेण परां

पुष्टिमनयत् । एवं ते त्रयोऽपि शिशवः परस्परं

जातिविशेषमजानन्तः एकाचारविहारा बाल्यसमयं

निर्वाहयन्ति स्म । अथ कदाचित् तत्र वने

भ्रमन्नरण्यगज: समायातः । तं दृष्ट्वा तौ सिंहसुतौ

द्वावपि कुपिताननौ तं प्रति यावत् प्रचलितौ तावत्तेन

शृगालसुतेन अभिहितम् – “अहो गजोऽयं

युष्मतकुलशत्रुः तन्न गन्तव्यमेतस्य अभिमुखम्।"

एवमुक्त्वा गृहं प्रधावितः । तावपिज्येष्ठबान्धवस्य

भङ्गात् निरुत्साहतां गतौ ।


अथ तौ द्वावपि गृहं प्राप्य पित्रोरग्रतो

विहसन्तौ ज्येष्ठभ्रातृचेष्टितमूचतु:- यथा स गजं

दृष्ट्वा दूरतोऽपि नष्टः । सोऽपि तदाकर्ण्य

कोपाविष्टमनाः प्रस्फुरिताधरः ताम्रलोचनः

तौ निर्भर्त्सयमान:परुषतरवचनानि उवाच ।

ततः सिंह्या एकान्ते नीत्वा असौ प्रबोधित:

"वत्स ! एवं कदाचित् मा जल्प । एतौ

भवदीयलघुभ्रातरौ ।" अथासौ प्रभूतकोपाविष्टः

तामुवाच – “किमहमेताभ्यां शौर्येण रूपेण"


विद्याभ्यासेन कौशलेन वा हीनो येन मामुपहसतः ।

तन्मया अवश्यमेतौ व्यापादनीयौ ।' तदाकर्ण्य


सिंही तस्य जीवितमिच्छन्ती अन्तर्विहस्य प्राह-

"शूरोऽसि कृतविद्योऽसि दर्शनीयोऽसि पुत्रक! ।

यस्मिन् कुले त्वमुत्पनो गजस्तत्र न हन्यते ।।"

"तत् सम्यक् शृणु । वत्स ! त्वं

शृगालीसुतः । कृपया मया स्वस्तनक्षीरेण पुष्टिं

◇.....◇

शृगालं न जानीतः, तावत् द्रुततरं गत्वा

स्वजातीयानां मध्ये भव । नोचेदेताभ्यां हतो

मृत्युपथं समेष्यसि ।” सोऽपि तद्वचनं श्रुत्वा

भयव्याकुलमनाः शनैः शनैरपसृत्य स्वजात्या

मिलितः ।



Thank you





Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post