Baka o kulirak in sanskrit(hindi)story.
अस्ति कस्मिंश्चित् वनप्रदेशे
नानाजलचरयुक्तं महत् सरः । तत्र च कृताश्रयः
कश्चित् बको वृद्धभावमुपागतो मत्स्यान्
व्यापादयितुमसमर्थः । ततश्च क्षुत्क्षामकण्ठः
सरस्तीरे उपविष्ट: अश्रुप्रवाहै: धरातलमभिषिञ्चन्
रुरोद ।
अथ कश्चित् कुलीरको बहुजलचरसमेत:
समेत्य तस्य दुःखेन दुःखितः सादरम् इदमूचे
"माम ! किमद्य त्वया नाहारवृत्ति:अनुष्ठीयते ?
केवलमश्रुपूर्णनेत्राभ्यां सनि:श्वासेन स्थीयते ?"
बक आह - "वत्स ! सत्यमुपलक्षितं
भवता । मया हि मत्स्यादनं प्रति परमवैराग्येण
सांप्रतं प्रायोपवेशनं कृतम् । तेनाहं समीपगतानपि
मत्स्यान् न भक्षयामि ।" कुलीरकस्तत् श्रुत्वा
प्राह - "माम ! किं तद्वैराग्यकारणम् ?'' स
आह "वत्स ! अहमस्मिन् सरसि जातो
◇..................◇
अनावृष्टिः सम्पद्यते ।' कुलीरक
आह - "कस्मात् श्रुतम् ?' बक आह -
"दैवज्ञमुखात् । तदेतत् सर: स्वल्पतोयं वर्त्तते ।
शीघ्रं शुष्कतां यास्यति । अस्मिन् शुष्के यैः
सहाहं वृद्धिं गतः सदैव क्रीड़ितश्च, ते सर्वे
तोयाभावात् नाशं यास्यन्ति । तत्तेषां वियोगं
द्रष्टुमसमर्थः । तेनैतत् प्रायोपवेशनं कृतम् ।
अपि च साम्प्रतं सर्वेषां स्वल्पजलाशयानां
जलचरा गुरुजलाशयेषु स्वस्वजनैः नीयन्ते ।
अत्र पुनः सरसि ये जलचरास्ते निश्चिन्ताः
सन्ति ।"
ततः कुलीरक:तदाकर्ण्य अन्येषां
जलचराण तत्तस्य वचनं निवेदयामास । अथ
ते सर्वे भयत्रस्तमनसो मत्स्यकच्छपप्रभृतयो
बकमभ्युपेत्य पप्रच्छुः - "माम ! अस्ति
कश्चिदुपायो येनास्माकं रक्षा भविष्यति ?"
बक आह – “अस्त्यस्य जलाशयस्य नातिदूरे
प्रभूतजलपूर्ण सरः । तत् यदि मम पृष्ठ
कश्चिदारोहति तदहं तं तत्र नयामि ।"
अथ सर्वे जलचराः तत्र विश्वासमापन्नाः
तात, मातुल, भ्रात इति ब्रुवाणा: 'अहं पूर्वमहं
पूर्वम्' इति समन्तात् परिवृताः। सोऽपि
दुष्टाशयः क्रमेण तान् पृष्ठे आरोप्य जलाशयस्य
नातिदूरे शिलायामाक्षिप्य स्वेच्छया अभक्षयत् ।
ततो भूयोऽपि जलाशयं समासाद्य जलचराणां
मिथ्यावार्त्तया मनांसि रञ्जयन् नित्यमेव
आहारवृत्तिमकरोत् ।
अन्यस्मिन् दिने कुलीरकेणो-
क्तम् – “माम ! मया सह ते प्रथमः स्नेहसंभाष:
संजातः । तत् किं मां परित्यज्य अन्यान्
नयसि ? तस्मादद्य मे प्राणत्राणं कुरु ।"
तदाकर्ण्य सोऽपि दुष्टाशय:चिन्तितवान्,
"विण्णोऽहं मत्स्यादनेन । तदद्य एनं कुलीरकं
व्यञ्जनस्थाने करोमि ।" एवं विचिन्त्य तं पृष्ठे
समारोप्य तां वध्यशिलामुद्दिश्य प्रस्थितः ।
कुलीरकोऽपि दूरादेव अस्थिपर्वतम-
वलोक्य मत्स्यास्थीनि इति परिज्ञाय तमपृच्छत्
“माम ! कियहरे स जलाशयः ?
मदीयभारेणातिश्रान्तः त्वम् । तत् कथय ।"
सोऽपि मन्दधी: जलचरोऽयमिति मत्वा स्थले
न प्रभवति इति सस्मितम् इदमाह, "कुलीरक !
कुतोऽन्यः जलाशयः । मम प्राणयात्रेयम् ।
तस्मात् स्मर्यतामभीष्टदेवता । त्वामपि अस्यां
शिलायां निक्षिप्य भक्षयिष्यामि ।"
एतच्छ्रुत्वा कुलीरकेण स्ववदनदंशद्वयेन
मृदुग्रीवायां पापाशयो बको गृहीतो मृतश्च ।
अथ स तां बकग्रीवां समादाय शनैः शनैः
तज्जलाशयम् आससाद । ततः सर्वैरेव जलचरैः
पृष्टः - "भो: कुलीरक ! किं निवृत्तस्त्वम् ?
स मातुलोऽपि नायातः । तत् किं चिरयति ?
वयं सर्वे सोत्सुकाः तिष्ठामः ।" एवं तैरभिहिते
कुलीरकोऽपि विहस्योवाच -
"मूर्खाः सर्वे
जलचरास्तेन मिथ्यावादिना वञ्चयित्वा नातिदूरे
शिलातले प्रक्षिप्य भक्षिताः । तत् मया
आयु:शेषतया तस्य विश्वासघातकस्य अभिप्राय
ज्ञात्वा ग्रीवेयम् आनीता । तदलं संभ्रमेण ।
अधुना सर्वजलचराणां क्षेमं भविष्यति ।"