biography of apj abdul kalam in sanskrit

biography of apj abdul kalam in sanskrit.


 पुत्रो धन्य: यो जातः सन् ज्ञानगौरवेण

जन्मभूमेः उन्नत्यर्थमात्मानं समर्पयति । सः

देशस्य एक: योग्यः पुत्रः अस्ति । स विज्ञानक्षेत्रे 

निरन्तरं गवेषयति, क्षेपणास्त्रजगति भारतं

प्रथयति । स सुतरां प्रथितयशाः अन्तारा-

ष्ट्रियख्यातिसम्पन्नः क्षेपणास्त्रमानवो वैज्ञानिक:

पूर्वतनराष्ट्रपति: डक्टर एपीजे (APJ) अबदुल

कलामः ।

प्राज्ञपुरुषस्य कलामस्य जन्म ख्रीष्टीये

१५, अक्टोबर, १९३१ मिते दिवसे

प्राचीनमद्रास- राज्यान्तर्गते रामेश्वरमिति नगरे

अभवत् । तस्य पिता " जइनुलावद्दिनः"

विवेकवान् उदारः अतिथिपरायणः, माता

"आशिआम्मा' सुगृहिणी स्नेहमयी च । तस्य

त्रयो भ्रातरः एकैव भगिनी ।


पित्रोः सुगुणैः प्रभावितः कलाम:

बाल्यादेव मातुः "आशिआम्मा” तः रामायण

-महाभारत-कोरानादिग्रन्थानां कथा:अशृणोत्, याः

कथाः उत्तममानवनिर्माणाय अलं भवन्ति ।

स्वभावेन नम्रः सः गुणवद्भिर्बालैः सहपाठिभिश्च

सार्धं बन्धुत्वं कुर्वन् सुगुणान् गृह्णाति स्म ।

एकदा बाल्यसमये पित्रा सह

मन्दिरप्राङ्गणे उपविष्टः कलामो मनोरमाभिः

गगनसागरयोः दृश्यराजिभि: भावाविष्टोऽभवत् ।

उड्डयमानां विहगपङ्क्तिं पश्यतस्तस्य मुखात्

स्वत एव- “नभसि पक्षिसदृशोऽहं नूनमेव

उड्डयिष्ये'' इति वाक्यं निरगच्छत्। यत् परवर्तिनि

काले कृच्छ्रसाधनैः फलितम् ।

विद्याध्ययने अत्यन्तमनोनिवेशात् सर्वेषां

गुरूणां प्रीतिभाजनं जात: सज्ज्ञानं च प्राप्तवान् ।


सर्वेभ्यो गुरुभ्योऽपि सातिशयं सम्मानं प्रदर्शयति ।

सुव्यवहारेण सर्वेषां शुभाशंसां लभमानः स

सफलतायाः शिखरप्रदेशम् आरूढवान् ।

विज्ञानविषयं प्रति प्रगाढ़ानुरागः

यन्त्रविद्यापठनाय तं प्रेरयत् । मद्रास-वैषयिकप्रतिष्ठाने

(Madras Institute of Technology) अध्येतुं

स योग्य: विवेचितः अभवत् । परन्तु अध्ययनार्थं

तत्र प्रेषणाय आवश्यकोऽर्थराशिः पितुःपार्वे

नासीत् । दैन्यबलात् मनोबलं दृढतरम् ।

यन्त्रविद्यायाः अध्ययनाय तस्य प्रबलमाग्रहम्

आलोक्य भगिनी "जोहरा' स्वस्य स्वर्णकङ्कणं

हारं च बन्धकरूपेण निधाय आवश्यकमर्थराशिं

दत्तवती । कार्येऽस्मिन् भगिनीपतेरपि अकुण्ठं

समर्थनमासीत् । एतत् पश्यन् कलाम:-

"अध्ययनादनन्तरं स्वोपार्जितेनाऽर्थेन बन्धकं

निश्चयं मोक्षयिष्यामीति'' शपथं नीतवानासीत् ।

अतः भगिनी "जोहरा' भगिनीपतिः "अहम्मद-

जलालुद्दिनश्चेति'' द्वयं साक्षाद् देवतेति तेन

स्वीकृतम् । उपकारिणो जनास्ते सन्तु गुरवोऽथवा

सन्तु बन्धुपरिजनाः सन्तु इतरे वा ते सर्वे सदा

तेनाऽविस्मरणीया: वर्तन्ते ।



अथ मद्रास- वैषयिकप्रतिष्ठानात्
व्योमयानविषयकयन्त्रविद्यायां कृतित्वेन सह स
उत्तीर्णः । गवेषणाकार्ये निरन्तरमनोनिवेशात् स
विवाहमुपेक्षितवान् । प्राप्तेऽवसरे तु गीता कोरान्
चेति धर्मग्रन्थद्वयं स पठति अथवा रुद्रवीणां
वादयति ।
क्षेपणास्त्रनिर्माणे तस्य भूयो भूयः प्रचेष्टया
भारतमद्य शक्तिशालिराष्ट्ररूपेण विश्वे परिचीयते ।
एस्.एल्-भि ३ यानस्य सफलपरीक्षणमालक्ष्य
प्रधानमन्त्री स्वर्गता इन्दिरागान्धीमहोदया
अभिनन्दनवात्त संप्रेष्य कलामं द्रष्टुमैच्छत् ।
एतद् विषयमधिकृत्य “इस्रो" (ISRO) अध्यक्षः
प्रोफेसर डक्टर सतीशधावनः कलामं निकषा
पत्रं प्रेषितवान् । "उच्चमानयुतं परिच्छदं विना
कथं प्रधानमन्त्रिणं द्रष्टुं यास्यामीति' चिन्तापर:
स आत्मन: समस्यां दूरभाष(दूरवाणी) माध्यमेन
व्यज्ञापयत् ।
प्राफेसर धावनमहोदयेन कथितम् :
"कलाम ! गुणैरेव नरो रम्य: साफल्यं न
परिच्छदैः । त्वं स्वक्रियया साफल्यं प्राप्तवान् ।
तस्मात्
भव्यैः परिच्छदैः किं प्रयोजनम् ?
चिराचरितवेशेन त्वम् इन्दिरागान्धीमहोदयां
द्रष्टुमर्हसि ।"
तस्य नेतृत्वेन निर्मितानि पृथिवी,
त्रिशूलम्, आकाशः, नागश्चेति क्षेपणास्त्राणि
भारतस्य सुरक्षाव्यवस्थां द्रढ़यन्ति ।
कतिपयपाश्चात्त्यराष्ट्राणां विरोधेऽपि बहुप्रतीक्षितस्य
अग्निनामकस्य क्षेपणास्त्रस्य सफलं परीक्षणं
संजातम् । कार्येऽस्मिन् प्रायः पञ्चशताधिका
वैज्ञानिका: यन्त्रिणश्च कार्यरता आसन् । फलेन
विश्वे हि प्रतिरक्षाक्षेत्रे भारतस्य गौरवं
वर्द्धतेतराम् । क्षेपणास्तविशारदः कलाम:
क्षेपणास्त्रमानवरूपेण प्रतिष्ठितः ।
साधनाक्षेत्रे उत्सृष्टजीवनचर्य या
कार्यकुशलतया च बहुसम्मानैः सम्मानित: स
सप्तनवत्यधिकोनविंशशततमे (१९९७) वर्षे
"भारतरत्नम्” इत्युपाधिना भूषितः ।
२५, जुलाई,२००२ मिते दिनाङ्के
भारतस्य द्वादशराष्ट्रपतिरूपेण सोऽधिष्ठितः ।
प्रथमाभिभाषणे देशस्य सामूहिकसमृद्धये स
खाद्यशस्यानां विद्युच्छक्तेश्चोत्पादनार्थम्,
चिकित्सायाः शिक्षाव्यवस्थायाश्च आशुप्रसाराय,
सूचनाप्रयुक्तिविद्याया उपयोगनिमित्तम्, प्रतिरक्षा-
परमाणु-महाकाशप्रयुक्तिविद्यादीनां द्रुतविकासार्थं
प्राधान्यमदात् ।
स बालेषु नितरां स्निह्यति । बाला
एव भाविनागरिकाः । तेषां कृते स सदा आशावाणी
श्रावयति, अने सर्तुं च प्रेरयति, यत्र यत्र याति
तत्र बालैः सह मिलति, उपविशति, हसति,
आलपति, विभिन्नान् प्रश्नान् पृष्ट्वा समुचितशिक्षा
ददाति । "उच्चलक्ष्यप्राप्तये स्वप्नं पश्य,
समयानुवर्ती भव, ज्ञानप्राप्तये कठिनं श्रमं कुरु,
श्रमेणैव सफलता लभ्यते, श्रमेण कस्याऽपि
प्राणाः न यान्ति, सुतराम् आलस्यं प्राणनाशस्य
कारणं स्यादित्युपदेशवाणी" स बालेभ्यः
प्रददाति ।
कलामे बहुसुगुणाः सन्ति, न लेशोऽपि
दुर्गुणस्य दुरभ्यासस्य च । जातिधर्मसम्प्रदायानाम्
ऊवे स वर्तते । विज्ञानस्य ईश्वरविश्वासस्य
च समन्वयः तस्मिन् दृश्यते । आजीवनं ब्रह्मचारी
शाकाहारी कलाम: राष्ट्रसेवानिमित्तं स्वजीवनं
समर्पयन् अस्माकम् आदर्शमहापुरुषः भवति ।


Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post