Deshabhaktah bajih

  

देशभक्तः बाजिः Deshabhaktah bajih



ढेकानालजल्लिायाः नीलकण्ठपुरग्रामे एकः नाविकः आसीत् ।नाविकस्य एकः पुत्रः अभवत् । पुत्रस्य नाम बाजिराउतः । बाल्यात् बाजि: पितरि मातरि च भक्तिं करोति । पितुः मातुः च वचनं पालयति । अवकाशकाले पित्रा सह नौकाचालनां करोति । लोकानां दुःखं पितुः शृणोति । दुःखस्य कारणं च पितरं पृच्छति ।

पिता सर्वदा उपदिशति - "वत्स ! देशस्य जन: देशस्य स्वाधीनतां रक्षेत् । स्वाधीनताया: रक्षणाय जीवनम् अपि त्यजेत् । कर्तव्यं पालयेत् । अत्याचारस्य विरोधं कुर्यात् । 

तदा स्वराज्याय आन्दोलनम् अचलत् । प्रजामण्डलस्य नेतारः शासकानाम् अत्याचारविषये ग्रामे ग्रामे लोकान् अबोधयन् । बहवः श्रोतार: सभास्थलं गच्छन्ति । बाजिः अपि मात्रा पित्रा च सह गच्छति । नेतृ णां भाषणं शृणोति । क्रमेण स: नेतृभिः प्रभावितः अभवत् । भारतमातु: सेवाम् अकरोत् । शत्रूणां प्रतिरोधम्अ करोत् । अन्ते च शासनकर्तृ णां गुलिकाभिः प्राणान् अत्यजत् । अतः प्राणपातेनापि देशामातृका सेवनीया।

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post