Jiban ka rahasya in sanskrit

 Jiban ka rahasya in sanskrit .


जीवनस्य रहस्यम्


कश्चन आम्रवृक्षः । तस्य वृक्षस्य शाखायाम् एकं सूत्रं लम्बमानम्

आसीत् । तस्मिन् सूत्रे एक: कोकिल: बद्धः । बहुयत्नेन अपि तस्मात् सः मुक्तः न अभवत् ।

सूत्रेण बद्धं तं कोकिलं केचन काका: अपश्यन् । ते कोकिलं

विनाशयितुं तत्पराः अभवन् । क्रमेण काका: तस्य समीपम् आगच्छन् ।

चञ्चद्वारा कोकिलम् अपीडयन् । काकानां पौडया स: क्षताक्तः अभवत् ।

सूत्रबन्धनेन सः दुःखितः आसीत् । तन्मध्ये काकानां पीडा अधिकं दुःखम्अददात् ।

तस्मिन् एव काले एक विशाल: काकः तत्र आगच्छत् । सः कोकिलस्य उपरि आक्रमणम् अकरोत् ।

अयं काक; कालरूपः आसीत् । स्वजीवनस्य रक्षणे असमर्थः कोकिल: "अहं नूनं मृत्यु प्राप्स्यामि'' इति अचिन्तयत् ।

एतत् सर्व तस्य वृक्षस्य अधः स्थितः एकः सज्जन: अपश्यत् । सः मनसि एवं चिन्तितवान् यत्

"कोकिल: नूनं मरिष्यति' इति । 'भो भगवन् ! भवान् निष्करुणः भवति ? निष्पापं कोकिलं किमर्थं न रक्षति ?

तस्मिन् एव काले काकस्य कोकिलस्य च भारम् असहमानं तत् सूत्र छिन्नम् अभवत् । सूत्रबन्धनात्मु क्त: कोकिल: शीघ्रम् उड्डीय दूरम् अगच्छत् ।

तदा स: सज्जन: सानन्दम् अवदत् - साधु, भगवन् ! मृत्युरूपेण आगत: काक: कोकिलस्य मोचनाय

अभवत् । धन्या भवतः माया ।


Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post