Bichitra srustih in sanskrit story

Bichitra srustih in sanskrit story.


 विचित्रा सृष्टिः


एकस्मिन् अरण्ये महान् वटवृक्षः अस्ति । तस्य कोटरे एक:

खञ्जनपरिवार : सानन्दं निवसति । कदाचित् खञ्जनपरिवारे एक: नूतन: शावक: जन्म नयति । खञ्जनमाता तस्मै प्रतिदिनं भोजनं ददाति । एकदा सा स्वस्य कृष्णवर्णं दृष्ट्वा चिन्तितवती - अहो ! ईश्वरस्य पक्षपात: कीदृश: ? केचन सुन्दराः भवन्ति । अन्य केचन कृष्णवर्णाः असुन्दरा: च भवन्ति । कोकिलस्य स्वर इब मम स्वर: नास्ति । शुकवत् मम सुन्दरं रूपं न भवति । यदि ईश्वरस्य कृपा भवति, तर्हि मम परिवारस्य सर्वे सुवर्णवर्णा: भवेयुः । वयं गर्वं कर्तुं पारयामः ।

प्रतिदिनम् एवं हीनभावनया पौडिता भवति खञ्जनमाता । अस्मिन् समये एक: सुन्दर: शुक: तत्र आगच्छति ।

यदा वृक्षशाखायां खञ्जनमाता तं पश्यति, तदा तस्याः मनसि ईर्ष्या आगच्छति । सा चिन्तयति, शुकस्य यत्

सौन्दर्य तत् मयि नास्ति । तस्य गानम्, उड्डयनं कर्णद्वयस्य नेत्रद्वयस्य च तृप्तिं जनयति । तदा एक: व्याधः तत्र

आगच्छति । जालेन शुकस्य बन्धनं करोति, पिञ्जरामध्ये तं स्थापयति च । भीता खञ्जनमाता शुकस्य अवस्था

पश्यति । ईश्वरस्य कृते धन्यबादम् अर्पयति । वदति च - शुकसदृशं सौन्दर्य यदि मयि भवति, तर्हि अहं तत्क्षणं

बन्धनयुक्ता भवेयम् । ईश्वरस्य सृष्टि: व्यबस्थिता अस्ति । अस्माकं मनः तु अव्यवस्थितम् एव ।

अनेन सत्यज्ञानेन खञ्जनमातुः हीनभावना गच्छति । सा परिवारेण सह सुखेन कालं यापयति ।



Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post