Laksha prapti ki kahani

Laksha prapti ki kahani.


 लक्ष्यप्राप्तिः



कदाचित् मण्डूककुले एका प्रतियोगिता आयोजिता। यः स्तम्भस्य शिखरं सर्वादौ प्राप्नुयात् सः विजयी भवेत् इति सर्वे मण्डूका: स्थिरीकृतवन्तः।

प्रतियोगितायां भागं नेतुं बहवो मण्डूका: अग्ने आगतवन्तः । प्रतियोगितां द्रष्टुम् अपि असंख्या: मण्डूका: तत्र सम्मिलिताः। प्रतियोगिता आरब्धा। मण्डूका स्तम्भस्य आरोहणं कृतवन्तः। दर्शका: मण्डूका: करताडनेन 'अरे'!

'अहो' ! 'हो'! इत्यादिभिः शब्दैः प्रतियोगिनाम् उत्साह वर्धयन्ति स्म। स्तम्भः अत्युच्च: चिक्कणः च आसीत्।

कतिपयाः मण्डूका; चिन्तयन्ति स्म-'क:वा स्तम्भस्य आरोहणं कुर्यात्? यः अग्रे गच्छेत् सः नूनम् अध: पतेत्।

तथापि कतिपया: मण्डूका: आरोहणाय यत्नं कृतवन्तः, परन्तु अन्येषां मण्डूकानाम् उत्साहरहितं वचनं श्रुत्वा

अध: पतितबन्तः । येषां मनोबलं दृढम् अस्ति ते पुनरपि आरोहणं कुर्वन्ति । तथापि कोऽपि मण्डूक; स्तम्भस्य

पादमपि न आरूढवान् । विफला: मण्डूका: नैराश्यं प्राप्तवन्तः ।

एका मण्डूकमाता स्वकनिष्ठपुत्रम् उक्तवती- 'पुत्र ! त्वं

स्तम्भस्य आरोहणं कुर्याः । आरोहणसमये कस्यापि वचनं न

शृणुयाः । बधिरत्वं प्रदर्शयेः । नूनं सफल: भवे: । मातुः

वचनेन पुत्रः स्तम्भस्य आरोहणाय अग्रे आगच्छत् । अल्पेन एवं

कालेन सः शिशुः स्तम्भस्य मध्यभागं प्राप्तवान् । तस्य आरोहणं

दृष्ट्वा अन्ये विस्मिता: अवदन् 'अये ! पते : त्वम् । भोः ! किमर्थम्  एतत् साहसं करोषि? तव प्रयास: व्यर्थः तथापि सः शिशुःमण्डूक: निरन्तरम् अग्ने अगच्छत्। अन्तत: गत्वा सः स्तम्भस्य अग्रभागम् अपि प्राप्तवान् ।


एतद् दृष्ट्वा सर्वे विस्मिताः अभवन् । ते अपृच्छन्-कथं त्वं स्तम्भस्य आरोहणे समर्थः अभवः? स: धौरम्

अवदत् यदि वयं गुरुजनानां वचनं शृणुयाम, मनसि एकाग्रतां धारयेम आत्मविश्वासं च दृढं कुर्याम लाई सफलताम् अवश्यं प्राप्नुयाम।

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post