phakir mohanh senapatih in sanskrit

phakir mohanh senapatih in sanskrit .


 व्यासकविः फकीरमोहनः

महर्षिः व्यासदेव: महाभारतस्य रचयिता । फकीरमोहनसेनापतिः ओडिआभाषया महाभारतस्य अनुवादं कृतवान् । अत: व्यासदेवस्य नामानुसारेण उत्कलीयानां समीपे स: व्यासकविः इति नाम्ना ख्यातः ।sah baalye संस्कृतस्य अध्ययनं krutaban । ओडिआ-रचनासु संस्कृतस्य बहुलं प्रयोगं स: कृतवान् । स: अपि ओडिआ- भाषायाः रक्षकरूपेण परिचितः ।

१८४३मिते ख्रीष्टाब्दे मकरसंक्रान्तिदिवसे फकीरमोहनः जातः ।

तस्य जन्मस्थानं बालेश्वरनगरस्य मल्लिकाशपुरम् । बाल्यात् स: अनाथः । पितामही तस्य लालन पालनं च अकरोत् । तस्य बाल्यकाल: अतीव दु:खपूर्णः आसीत् । सः प्रथमतः बारवाटीविद्यालये प्राथमिकशिक्षा प्राप्तवान् । अनन्तरं स: तत्र एव शिक्षक: अभवत् । सः तदनन्तरं मिशविद्यालये प्रधानशिक्षकरूपेण नियुक्तः ।

तस्य प्रखरा बुद्धिः आसीत् । आङ्ग्लसर्वकारेण स: 'देवान्' इति पदे नियोजितः । स: नीलगिरि-ढेकानाल-

केन्दुझर-दशपल्लादिस्थानेषु बहु जनहितकरं कार्यं कृतवान् । सः संस्कृतस्य प्रचाराय नीलगिरिनगरे संस्कृतविद्यालय

स्थापितवान् । संस्कृतरामायण-महाभारत-उपनिषदादीनां ग्रन्थानां स: ओडिआभाषया अनुवादं कृतवान् ।

ओडिआ-भाषाया: कृते फकीरमोहनस्य दानम् अतुलनीयम् । ओडिआ-साहित्यस्य स: प्रथम: कथाकार :,

उपन्यासकारश्च । तस्य रेवतीकथा प्रसिद्धा । तत्र रेवत्याः चरित्रं कुसंस्कारस्य अन्धविश्वासस्य च द्योतकं

भवति । तस्य पेटेण्टमेडिसिन्-डाकमुन्सी-राण्डीपुअ अनन्ता-धूलिआबाबाप्रभृतिकथा: अधुना अपि जीविता

इव अनुभूयन्ते । तस्य 'छमाण आठगुण्ठ' उपन्यास: अतीव लोकप्रियः । सः अपि लछमा-मामुं-प्रायश्चित्त-इति उपन्यासानां रचयिता ।

ओडिआभाषाया: सुरक्षार्थं स: सेनापतिरूपेण कार्यं कृतवान् । तस्य निष्ठापर-नेतृत्वेन ओडिआभाषा

स्वमर्यादां प्राप्तवती । अत: उत्कलीयाः तं सेनापतिः इति कथयन्ति । १९१८मिते वर्षे स: रजसंक्रान्ति-

दिवसे दिवंगतः । उत्कलीयानां समीपे स: चिरस्मरणीयः सञ्जातः । अधुना बालेश्वरनगरस्य मल्लिकाशपुरे

तस्य स्मृतिपीठं शोभते । तत्र प्रतिवर्ष तस्य जन्मदिनस्य पालनं भवति । बालेश्वरे तस्य नाम्ना एक: विश्वविद्यालय:

स्थापित: अस्ति ।

.

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post