Jatnena siddhih in sanskrit

 Jatnena siddhih in sanskrit .


आहूतवान् । विस्मितः कश्चित् पथिक: मार्गे गच्छति स्म । आतपेन सः श्रान्तः अभवत् । गमनसमये स: मार्गपार्वे एक

विशाल वृक्षम् अपश्यत् । तस्य अध: एकः शीर्ण : वृद्धः उपविशति स्म । क्लान्तः पथिक: चलनक्षम: न आसीत् । अतः सः तं वृद्ध पृष्टवान् - भो: महाशय ! इतः कियद् दूरे ग्रामः अस्ति ? भवान् जानाति वा ?

वृद्धः किमपि उत्तरं न दत्तवान् । पथिक: बहुवारं पृष्टवान् । परन्तु किमपि उत्तरं न प्राप्तवान् । श्रान्त: पथिक : कुपित: अभवत् । स: मनसा तं वृद्धम् अनिन्दत्, अग्रे गमनाय यत्नं कृतवान् च ।

पथिकः यदा त्रिचतुराणि पदानि अग्रे अगच्छत्, तदा स: वृद्धः तम् उच्चस्वरेण आहूतवान् ।

पथिकः पृष्ठदेशम् अवलोकितवान् । तदा स: वृद्धः वदति - महोदय ! गन्तव्यः ग्रामः इत: कोशामिते दूरे

अस्ति इति ।

कुपित: पथिक : तम् अवदत् - पूर्वम् अहं पुन: पुन: पृष्टवान् ।

भवान् किमपि उत्तर न ददाति । इदानी पृष्ठतः किमर्थं वदति ? वृद्धः शान्तेन स्वरेण उक्तवान् - तदा भवान् अग्रे गमिष्यति न बा इति अहं न ज्ञातवान् । यदि भवान् अग्रे न गच्छति, तर्हि मम उत्तरं व्यर्थं

स्यात् । इदानीं भवान् नूनम् अग्ने गमिष्यति इति निश्चितम् । अत: उत्तरं ददामि । य: गच्छति स: एव गन्तव्यस्थान प्राप्नोति । अत एव उक्तम् -

यत्नशीलस्य जनस्य भाग्यं नित्यशः फलति इति ।


Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post