Janma barbara katha in sanskrit .
आसीत् कौशाम्बी नाम नगरी । तत्र
देवधरनामा गणकः प्रतिवसति स्म । तस्य
शान्तिधरो नाम पुत्रो बभूव । स च जन्मवर्वर:
पित्रा गुणिना प्रयत्नेन पाठ्यमानः पदार्थं
नाधिगच्छति ।
तथापि लोकद्वय प्रत्याशाङ्कुरः
सकलमनोरथस्थानम् एक एव तस्य पुत्रः ।
◇......◇
महता समयेन महता च पितुः श्रमेण स
शुकवदभ्यस्तशास्त्रः अभवत् ।
तमधिगतशास्त्र कृत्वा
गणकश्चिन्तितवान् । “यदेनं राज्ञ: परिचितगुणं
करोमि ।' ततः स गणको राज्ञः समीपं तं
पुत्रं नीतवान् ।
तं पुरोवर्त्तिनं दृष्ट्वा राजोवाच - "अरे
देवधर गणक ! किमधीतम् अनेन पुत्रेण ?'
गणक उवाच - "देव ! गणकशास्त्रम्
अधीतम् अनेन । प्रश्नस्योत्तरं च जानाति ।
ततोऽद्य देवेन पृष्टो यदि प्रश्नस्योत्तरं विज्ञास्यति
तदध्ययनफलं प्राप्स्यति ।"
तदनन्तरं सकौतुको राजा
सुवर्णाङ्गुलीयकम् एकं मुष्टौ कृत्वा तमुवाच -
"अये गणककुमार ! जानीहि तावत् किं वस्तु
मम मुष्टौ वर्त्तते इति ?"
ततो गणकपुत्रः कठिनीमादाय
शास्त्रानुसारेण गणयति स्म । गणनया च
विदित्वा अब्रवीत् – “देव ! न जीवो न मूलं,
किन्तु धातुरूपं वस्तु देवस्य मुष्टौ तिष्ठति ।"
राजोवाच - "त्रुटिशून्यगणना ।"
गणकपुत्रः पुनरुवाच - "मण्डलाकृति
वस्तु वर्त्तते ।"
राजोवाच - "समुचितं वचनम्"
गणकपुत्रः पुनरवदत्- “गुरुद्रव्यं, मध्ये
शून्यं च भवति ।"
राजोवाच - “साधु गणककुमार साधु !
भद्रं जानासि, कथय, कथय ।"
ततोऽद्य देवेन पृष्टो यदि प्रश्नस्योत्तरं विज्ञास्यति
तदध्ययनफलं प्राप्स्यति ।"
तदनन्तरं सकौतुको राजा
सुवर्णाङ्गुलीयकम् एकं मुष्टौ कृत्वा तमुवाच -
"अये गणककुमार ! जानीहि तावत् किं वस्तु
मम मुष्टौ वर्त्तते इति ?"
ततो गणकपुत्रः कठिनीमादाय
शास्त्रानुसारेण गणयति स्म । गणनया च
विदित्वा अब्रवीत् – “देव ! न जीवो न मूलं,
किन्तु धातुरूपं वस्तु देवस्य मुष्टौ तिष्ठति ।"
राजोवाच - "त्रुटिशून्यगणना ।"
गणकपुत्रः पुनरुवाच - "मण्डलाकृति
वस्तु वर्त्तते ।"
राजोवाच - "समुचितं वचनम्"
गणकपुत्रः पुनरवदत्- “गुरुद्रव्यं, मध्ये
शून्यं च भवति ।"
राजोवाच - “साधु गणककुमार साधु !
भद्रं जानासि, कथय, कथय ।"
किमधिकम् ? अरे मूर्ख गणकपुत्र !
त्वं न जानास्येव महत् एतादृशं विशालं
पाषाणचक्रं मनुष्यमुष्टिगर्भे न सम्भवति । तत्
कथम् असंगतः एवायं तर्कस्तव चेतसि
आयातः । तस्मादवश्यं बुद्धिहीनोऽसि ।'
इत्यभिधाय राजा तस्मै किंचिद्वस्तु दत्त्वा
तमाज्ञप्तवान्-
गुरुं निषेवन्नपि जीवनाय
भ्रमन् धरित्र्यामपि यावदम्बुधि ।
अधीत्य शास्त्राण्यपि चिन्तयन् मुहु-
र्धिया विहीनो न हि याति धन्यताम् ।।