Swami bibekanand biography in sanskrit .
महामानवाः दिव्यपुरुषाः । ते
अमरधाम्न: पृथिवीम् अवतरन्ति ।
मानवजाते:धर्मस्य विश्वसमुदायस्य च कल्याणार्थं
स्वल्पावधिजीवनकालेते महत् कार्यं साधयन्ति
पुनरमरधाम प्रत्यागच्छन्ति च । ज्योति:पुरुषः
सार्थकनामा स्वामी विवेकानन्दः युगाकाशे
उज्ज्वलज्योतिष्करूपेण नितरां विभाति ।
नैराश्यान्धकाराच्छन्ने नभसि यूनां कृतेऽद्यापि
स उत्साहोद्दीपनालोकं विकिरति । कालजयिनीभिः
समीचीनवाणीभिः लोकान् उद्बोधयति ।
संसारसागरे जीवनपोतं वाहयतः जनान् कूलमानेतुं
दिश: निर्दिशति । योगजन्मनस्तस्य अमृता वाणी
धरापृष्ठम् अद्यावधि चिरस्रोता: गॉव चिरं
पवित्रीकरोति ।
"कोलकाता'' इति नगरे कुलीने परिवारे
शुभे क्षणे १२, january , १८६३ mite
दिवसे अस्य महापुरुषस्य जन्म ।
रत्नगर्भा “भुवनेश्वरीदेवी' स्वभावसरल:
"विश्वनाथदत्तः' चास्य मातापितरौ ।
विवेकानन्दस्य बाल्यनाम नरेन्द्रनाथस्तस्य माता
स्नेहेन “विलु' इति नाम्ना तम् आहूतवती ।
माता तम् उक्तवती – “पुत्र ! आजीवनं पवित्रो
भव । आत्मसम्मानं रक्ष, अन्यस्य च सम्मानहानि
मा कुरु" इति ।
मातुरुपदेशं स स्वजीवने
आचरितवान् । बाल्यात् सः ज्ञानपिपासुः
ईश्वरविश्वासी ईश्वरजिज्ञासुश्चासीत् । ईश्वरानुसन्धाने
व्याकुलोऽसौ रामकृष्णपरमहंसं निकषा गत्वा
पृष्टवान् -
"श्रीमन् महाशय ! भवान् भगवन्तं
दृष्टवानस्ति' ?
"हम्, दृष्टवानस्मि, यथा त्वां पश्यामि"
इति उत्तरं रामकृष्णेन प्रदत्तम् । अनेन उत्तरेणैव
रामकृष्णपरमहंसे तस्य पूर्णविश्वासो जातः ।
अथ तमेव गुरुरूपेण स्वीकृतवान् । गुरुणा सोऽपि
शिष्यरूपेण स्वीकृतः । योग्यगुरोः योग्यशिष्यस्य
च संयोग: दैवनिर्दिष्टः । विश्वस्य आध्यात्मिकक्षेत्रे
महती परम्परा प्रतिष्ठिता । सत्यमिदम्, अयं
शुभमुहूर्तः विश्वकल्याणार्थं चिरादेव प्रतीक्षितः ।
आध्यात्मिकज्ञानवृद्धये स
प्राच्यपाश्चात्त्यदर्शनशास्त्राणि अधीतवान् । अतीव
मेधाविनस्तस्य स्मृति: नितरां प्रखरा आसीत् ।
सकृदेव पठनेन श्रवणेन वा स स्मृतिपटले चिराय
सर्वं निधातुं शक्नोति स्म ।
Tasya गभीरस्वरः श्रोतृ णां hrudayani
स्पृशति sma । ११ , September , १८९३ mite
दिवसे आमेरिकास्थिते चिकागोनगरे
विश्वधर्मसम्मेलने अंशग्रहणं कृत्वा स यदा
भाषणप्रारम्भे श्रोतृ न् सम्बोधितवान् – “हे मम
आमेरिकादेशस्था भ्रातरः भगिन्यश्च" तदा
करतालैः सम्मेलनस्थानं प्रकम्पितमासीत् ।
"वसुधैव कुटुम्बकम्'' इति विषयमनुसृत्य भाषणं
प्रदाय सकलान् चमत्कृतवान् । न केवलं
सनातनधर्मस्य अपि तु मानवधर्मस्य प्रसाराय
विभिन्नस्थानेषु समुचितभाषणं दत्त्वा स विश्वविश्रुतो
बभूव ।
दरिद्राणां कृते तस्य हृदयं
विगलितमासीत् ।
तेषां साहाय्यार्थं
लोकानुबोधयति स्म । सन्न्यासी अपि स
स्वजनन्या: दुःखानि निवारयितुं सततमचेष्टत ।
आजीवनं तामपि स्मरति स्म ।
स कथयति
"यः मातरं यथार्थं पूजयति, सः
अवश्यम् उत्तमो मानवो भविष्यति ।
प्रतिकूलावस्थासु आत्मन: प्रकाश: विकासश्चेति
द्वयं नाम सफलं जीवनम् ।” इति
स यथा वदति, तथा स्वजीवने
आचरति ।
कोलकातायाः वेलुरग्रामे गुरोः
रामकृष्णस्य नाम्ना मठं संस्थाप्य सनातनधर्मस्य
मौलिकतत्त्वस्य प्रचारेण सह स दरिद्राणां
सेवामारभत । रामकृष्णमिशन्माध्यमेन उबुद्धैः
युवकैः सम्प्रति विश्वस्य अनेकत्र सेवा क्रियते ।
०४, जुलाई , १९०२ मिते दिवसे
स इहलीला समाप्य दिव्यधाम गतवान् । प्रायश:
ईश्वरस्य पुत्रा: न खलु दीर्घजीविनः । ते सुतरां
स्वल्पजीवनेन संसारस्य प्रभूतम् उपकार
कुर्वन्ति । योगजन्मा कालजयी स महापुरुषः
अद्यापि विश्वं ज्ञानालोकैरुद्भासयति ।
तस्य स्वप्नस्य अमरवाण्या: च सफल:
प्रयोगः तं प्रति यथार्थसम्मानः भविष्यति ।