Mudhah sahayakah.
अस्ति अवन्तिकायां द्वितीयचरकः राजवैद्यः
अमृतकरः । तस्मिन् राज्ञः चन्द्रसेनस्य यथा विश्वासः
तथैवाऽपि प्रजाकुलस्य । किमपि औषधीयं
पत्रपुष्पादिवं स्वस्य जिह्वायां संस्थाप्य तस्य
द्रव्यगुणपरीक्षणे असौ आसीत् सुदक्षः । राजवैद्यस्य
रसशालासहायकत्वेन नियुक्तः स्वल्पविद्य:
विकलबुद्धिः सर्वथा आत्मानं सर्वज्ञः इति चिन्तयति ।
एवमपि कदाचिदसौ स्वप्रभोः शास्त्रज्ञानविषये अन्येषां
पुरत: सन्देहं प्रकटयति । स्वकीयाम् अपूर्वां कार्यदक्षतां
स्वयमेव प्रशंसति । एकदा चिन्तयति राजवैद्यस्य
सविधे कथं स्वकीयं पाण्डित्यं प्रमाणयिष्यतीति ।
एकस्मिन् दिवसे राजपुरात् राजवैद्येन सह
विकलबुद्धिः आगच्छति। तदानीं हठात् असौ
मार्गस्योपरि निपतितं कमपि पदार्थमानीय स्वस्य
जिह्वायां स्थापयति । ततः कियत्क्षणेभ्यः परं तमेव
मुखात् वहि: निक्षिपति । एतस्यावलोकनेन राजवैद्यः
तमपृच्छत् किमेतदिति । ततः सः महतानन्देन मन्दं
विहस्य कथयति - मान्याः ! श्रीमतां साहचर्येण
बहुग्रन्थानुशीलनेन च ममाऽपि द्रव्यगुणपरीक्षणे
बलीयसी दक्षता जायते । तदर्थम् अहमेवं करोमि ।
यतो हि मार्गस्य उपरि स्थितस्य एतस्य पदार्थस्य परीक्षणं
विना गमनं दोषाय भवति । एतदर्थमहं स्वजिह्वायां
स्थापयामि । नोचेत् यदि अज्ञानात् अस्योपरि आवयोः
पादपात: स्यात्, तर्हि अवश्यं महत् पातकम् जायेत ।
स्वसहायकस्य मूर्खतामहङ्कारञ्च वीक्ष्य
राजवैद्यः विहस्य एतादृशकार्यात् तं निराकरोति स्म ।
राजवैद्य: अमृतकर: न केवलं बहुशास्त्रदर्शी
अपितु तस्य तात्कालिकी बुद्धिः आसीदनन्या । तदर्थं
प्रकृतपरिस्थितिज्ञ: अयं यथार्थत्वेन रोगस्य निदाने क्षम:
भवति । एकदा उदरपीडामनुभवतः राज्ञः चिकित्सार्थं
गत: राजवैद्यः खट्वाया: अधोभागे एकं भूचणकबीजम्
अपश्यत् । अवश्यं राजा एतस्याधिकभक्षणेन
उदररोगपीडित: अस्तीति स्थिरीकृत्य अवदत्-राजन् !
भूचणकानाम् अधिकभक्षणेन एतादृशी उदरपीडा
भवतीति शास्त्रस्य सिद्धान्तः । यदि मम वचनं
सत्यमस्ति, तर्हि सूचयतु । एतन्निशम्य स्वयं राजा
अन्येऽपि च परिजना: राजवैद्यस्य अपूर्वां निदानदक्षतां
बहु प्रशंसन्ति स्म । तत्रापि उपस्थितः आसीत् स्वयं
विकलबुद्धिः ।
राजवैद्यः इव रोगकारणं कुत्रचित् उक्त्वा स्वयं
प्रशंसित: स्यात् इति व्यचिन्तयत् स: । एकदा राजवैद्य:
मित्रालयमगच्छत् । अस्मिन् समये सेनापति: बाहुबली
ज्वराक्रान्तः इति संवादः आगतः । अतः अयमेव
परमः सुयोगः स्वज्ञानस्य परीक्षणार्थमिति मत्वा सः
स्वयमेव सेनापतेः सदनम् अगच्छत् । एकस्याः
खट्वाया: उपरि स्थित: सेनापति: ज्वरेण कम्पते ।
आत्मीया: तस्य दुःखाभिभूता: चतुःपार्वे दण्डायमानाः
सन्ति । विकलबुद्धिः मिथ्यानाडीपरीक्षणं कृत्वा
राजवैद्यः इव खट्वाया: अध: अपश्यत् । तदानीं तत्र
सेनापते: प्रभुभक्त: विडाल: उपविष्टः आसीत् ।
अयमेव योग्यताप्रमाणार्थमुपयुक्तः सुयोगः इति
निश्चित्य असौ अवदत् - सेतापते ! अधिक-
विडालभक्षणेन एतादृशः ज्वर: अवश्यं जायते इति
शास्त्रीयं वचनम् । मन्ये रात्रौ भवान् अधिवं
विडालमासम् अखादत्, येन ज्वाराक्रान्तः अस्ति ।
तस्य वचनेन सेनापते: गृहजना: अतीव
उत्क्षिप्ताः जाताः । अयमतीव मूर्खः अस्ति इति
विचिन्त्य ते तमेव ताडयित्वा तस्मात् नि:सारितवन्त: ।
राजवैद्यः अतीव परोपकारी सहृदयश्च
आसीत् । कस्य दुःखावलोकनेन सः स्वयं क्षुण्णः
जायते । एष खलु तस्य महान् दुर्लभ: गुणः । तदर्थम्
अयं सर्वत्र प्रशंसित: पूजितश्च । एकस्मिन् दिवसे
तस्य गृहं निकषा कश्चित् जन: मृतः । तस्यैका कन्या
उच्चैः अक्रन्दत् । कृपालु: राजवैद्यः तत्र गत्वा तामेव
कन्यां प्रबोधयन् अवदत् - पुनि ! मा क्रन्द । अद्यारभ्य
इति स्थिरीवृत्य आत्मन: परिचयं स्वयं
विशिष्टशिशुरोगविशेषज्ञः इति प्रददाति । परन्तु
अज्ञानात् अनभ्यासात् च बहवः शिशवः
कालकवलिताः ।