Utkal gourabamm in sanskrit .
भारतवर्षे ओडिशाराज्यस्य महत्त्वं सुविदितम् । एतत् राज्यं वृषिप्रधानम् । या कृषकजातिः अस्य भूखण्डस्य मूलाधिवासिनी सा उडूनाम्नी प्रसिद्धा । कृषिजीविन: उड्राः इति कथ्यन्ते ।
तेषां भाषायाः नाम आसीत् उड्रभाषा । भरतस्य
नाट्यशास्त्रे उभाषायाः सूचना प्राप्यते । महाभारतयुगे
अस्य राज्यस्य नाम कलिङ्गः आसीत् । कलिङ्गाः
अस्य भूखण्डस्य क्षत्रियसंप्रदायाः परमशूरा: आसन् ।
तेऽपि महाभारतयुद्धे योगदानमकुर्वन् । सहस्राणां
कलिङ्गवीराणां मातृभूमेः कृते आत्मबलिदानं दृष्ट्वा
व्यथितः अशोकः तदैव युद्धवर्जनं कर्तुं निष्पत्तिं
चकार । असौ धवलगिरौ बौद्धधर्मेण दीक्षितः सन्
देशे विदेशे च धर्मप्रचारमकरोत् । तत्रत्यः शान्तिस्तूप:
कलिङ्गकीर्ति स्मारयति ।
इतिहासप्रसिद्धः कलिङ्गसम्राट महामेघवाहनः
ऐरखारवेल: मगधं विजित्य विशालं जिनासनमानीय
उदयगिरौ अस्थापयत् । खण्डगिरौ खोदिताः
हस्तिगुहादयः तथा शिलालेखाश्च खारवेलस्य
विजयगाथां घोषयन्ति । अशोकस्य प्रभावेण
ललितगिरि- पुष्पगिरि- रत्नगिरिप्रभृतिस्थलेषु यथा
बौद्धधर्मस्य प्रचारोऽभवत खारवेलस्य समये जैनधर्मस्य
तथा प्रचारोऽभूत्। परवर्त्तिनि काले अत्र सनातनधर्मस्य
अभ्युदयेन साकं विविधमन्दिराणां निर्माणमभवत् ।
श्रीक्षेत्रस्य श्रीमन्दिरं भुवनेश्वरस्य श्रीलिङ्गराजमन्दिरं
राजराणीमन्दिरं याजपुरस्य विरजामन्दिरं शरणकुलस्य
लडुकेश्वरमन्दिरम् ओड़ग्रामस्थित-श्रीरघुनाथमन्दिरं
रेमुणास्थितं क्षीरचोरागोपीनाथमन्दिरं खिचिंस्थितं
कीचकेश्वरीमन्दिरं केन्द्रापडाया: बलदेवजीउमन्दिरं
कोणार्कस्य सूर्यमन्दिरं सम्बलपुरस्य समलेश्वरीमन्दिरं
एतानि मन्दिरेषु प्रसिद्धानि । एतेषु श्रेष्ठ
श्रीजगन्नाथमन्दिरम् । भक्तानां परमाराध्य: श्रीजगन्नाथः
पुरुषात्तमः कैवल्यप्रदायकः इति प्रसिद्धिः । यद्यपि
सर्वाणि मन्दिराणि विविधस्थापत्यकलानिदर्शनानि
भवन्ति तथापि उत्कलीयकारुकार्याणां समुत्कर्षः
कोणार्कमन्दिरे एव प्रकटीकृतः । सूर्योपासनार्थ
निर्मितस्य चन्द्रभागोपकण्ठावस्थितस्य मन्दिरस्यास्य
भग्नावशेष: अद्यापि परिदृश्यते । पाषाणखण्डेषु याः
सूक्ष्मकला: उत्खनिता: ता: दर्शकानां विस्मयं जनयन्ति
मनांसि हरन्ति च । रथाकृतेः मन्दिरस्यास्य
द्वादशचक्राणि मन्दिरगात्रे खोदिता: मूर्तयः
लतापत्रादयश्च सजीवा: इव प्रतिभान्ति ।
सूक्ष्मकलायाः चरमोत्कर्षात् अस्य भूखण्डस्य नाम।
उत्कल: इति अनुमीयते । उत्कृष्टाः कला: यस्मिन् स
उत्कलः ।
वस्तुत: उत्कल-कलिङ्ग-वकोशलोडू-
कंगोदरूपेण परिचितानां देशानां भूखण्डांशैः संप्रति
ओडिशाराज्यं परिचितम् । एकाधारेण उड्रीया:
कृषकाः, कलिङ्गा: वीराः, कर्मकुशला: कोशलजाः,
संगीतविशारदा: कंगोदजा: उत्कलीया: कलाकोविदा:
आरण्यका: आदिवासिनश्च स्वकृतित्वच्छलेन
ओडिशाराज्यस्य गौरवं प्रख्यापयन्ति । जातीयसंगीते
प्रयुक्तमुत्कलमिति पदम् ओडिशानिमित्तकमेव ।
उत्कलस्य सांस्कृतिकपरम्परा अतीव समृद्धा ।
कार्तिकपूर्णिमायां वहिनवन्दनपर्व प्राचीननौवाणिज्यस्य
स्मृतिमावहति । श्रीक्षेत्रे श्रीजगन्नाथस्य रथयात्रा
विश्वप्रसिद्धा । अत्र वैष्णव-शैव-शाक्त-सौर-शिख-
ख्रीष्टीय-महम्मदीयप्रभृतिमतावलम्बिनां निर्द्वन्द्वः
समावेश: दृश्यते । श्रीजगन्नाथस्य महाप्रसादं जाति-
धर्म-वर्णनिर्विशेषम् एकत्र उपविश्य भुञ्जते ।
आदिशंकराचार्य: श्रीक्षेत्रमागत्य श्रीजगन्नाथस्य दर्शनं
कृत्वा तत्क्षेत्रं परमतीर्थं मत्वा तत्र गोवर्द्धनपीठम्
अस्थापयत् । अस्मिन् राज्ये महिमधर्मः समुद्भूतः ।
पुराणप्रसिद्धनानातीर्थसमन्वितं शंखक्षेत्र-
चक्र क्षेत्र-गदाक्षेत्र-पद्मक्षेत्र-तुलसीक्षेत्रादियुक्तं
प्राकृतिकसंपत्परिपूर्ण श्यामलवनश्रीपरिशोभितं
बहुनदीसंवृद्ध चिलिकादिद्रैः मनोरममिदं राज्यं
पर्यटकानामतीव आकर्षणीयम् । न केवलमेतत्
भूमिरियं बहुमहापुरुषाणां जन्मदात्री । साहित्यदर्पणस्य
लेखक: विश्वनाथकविराजः, गीतगोविन्दस्य लेखक:
भक्तकवि: जयदेवः, पञ्चतन्त्रकार: विष्णुशर्मा,
श्रीमद्भगवद्गीतायाः प्रसिद्धः भाष्यकार: श्रीधरस्वामी
च अस्मिन् भूखण्डे जाताः । उत्कलभाषाया: कविषु
सारलादासः, बलरामदास:, अतिबडिजगन्नाथदासः,
महापुरुष: अच्युतानन्ददासः, महापुरुष: यशोवन्तदासः,
महापुरुष: अनन्तदासः, हाडिदासः, सालवेग:,
उपेन्द्रभञ्जः, बलदेवरथः, दीनवृष्णदासः,
भक्तचरणदासः, अभिमन्युसामन्तसिंहार इत्यादयः
सुप्रसिद्धाः । आधुनिकयुगे फकिरमोहन-राधानाथ-
गङ्गाधर-मधुसूदन-कान्तकविलक्ष्मीकान्तप्रभृतयः
उत्कलभारती स्वकीयै: रचनास्तबकैः अलंकृतवन्तः ।
उत्कलप्रदेशस्य स्थिति: यदा विपन्नाभवत् तदा
उत्कलगौरव-मधुसूदनः उत्कलसम्मिलनीमाध्यमेन
एतां जातिमुदबोधयत् । फलत: १९३६ ख्रीष्टाब्दे
स्वतन्त्रउत्कलप्रदेशः अभवत् । बक्सिजगबन्धुः
बाजिराउत: लक्ष्मण नायक: विर्सा मुण्डा बाघायतिन्
उत्कलमणिः गोपबन्धुः आचार्यः हरिहर: मनीषी
नीलकण्ठ: आदिनाट्यकार: जगमोहनलाला वाग्मी
विश्वनाथ: कर्मवीर: गौरीशंकर : महाराज-
श्रीकृष्णचन्द्रनारायणगजपतिदेवः महाराजश्रीरामचन्द्र
भञ्जदेव: इत्यादयः भारतस्य स्वतन्त्रतासंग्रामे योगदानं
कृत्वा चिरस्मरणीयाः भवन्ति ।
संगीतनाट्यकलादिषु उत्कलस्य अपि प्रभूता
प्रतिष्ठा विद्यते । ओडिशीनृत्यम् ओडिशीसंगीतं
सम्बलपुरीनृत्यं सम्बलपुरीगीतं वैष्णवपाणिगीतिनाट्यं
रघुराजपुरस्य गोटिपुअनृत्यं जनजातिवनवासिनृत्यं तथा
ओडिशीपट्टचित्रं सम्बलपुरीवस्त्रं कटकस्य स्वर्ण-
रौप्यनिर्मित-सूक्ष्मालंकाराः स्वीयवैशिष्ट्येन समग्ने
विश्वेऽपि समादृताः सन्ति ।
उत्कलस्य सागर: महोदधिः उत्कलस्य नदी
महानदी पर्वतः महेन्द्रः राजपथ: बडदाण्ड: महाप्रभुः
श्रीजगन्नाथः प्रसादः महाप्रसाद: एवं प्रकारेण
महाभूमिरियं युगे युगे महीयसी । उत्कलस्य
विविधमतावलम्बिनाम् उपासनापीठानि सांस्कृतिक-
सामाजिकमहोत्सवाः पर्वाणि च सांप्रदायिक-
सद्भावनायाः तथा सर्वधर्मसमन्वयस्य वार्तामावहति ।
कपिलसंहितायामुक्तं यत्-
पृथिव्यां भारतं श्रेष्ठं भारते चोत्कल: स्मृतः ।
उत्कलस्य समो देश: क्वापि नास्ति महीतले ।।
Thank you