Atma guna bikashanam

Atma guna bikashanam.


 एकदा सर्वेऽपि प्राणिन: अन्ये जीवविशेषाश्च

सृष्टिकर्तुः ब्रह्मण: समीपं गत्वा तम् उक्तवन्तः - "भो:

पितामह !अस्माकम् अभियोगं शृणोतु भवान्'' इति ।

ब्रह्मा उक्तवान् - “भवन्त: एकैकश: आगत्य

निवेदयन्तु" इति ।

आदौ गर्दभः उक्तवान् - "हे प्रभो ! भवत:

सृष्टौ पक्षपात: दृश्यते । यतः अत्र जीवानां मध्ये

खाद्यखादकभावः अस्ति । अन्यच्च तेषु केचन

बुद्धिमन्त:, अन्ये केचन मन्दा: इति जना: मन्यन्ते ।

शृगालः बुद्धिमान् इति प्रथा अस्ति । जना: मां बुद्धिहीनं

मन्यन्ते । ते भारवहनकार्ये मां नियोजयन्ति । भवान्

मां चतुरं करोतु । मम गुणान् शृगालाय ददातु'' इति ।

ततः काकः उक्तवान् - "अहं जनानां

सेवां करोमि । 'का का' कृत्वा रात्रि: समाप्ता

Eti janann प्रबोधयामि । परं maaya उपकृताः अपि

Janah मद्विषये जुगुप्सन्ते, कोकिलमेव प्रशंसन्ति

च । कोकिलस्य सुमधुर: स्वर: मम तु कर्कश: ।

अत: भवान् मम कण्ठं मधुरं, कोकिलस्य च

कर्कशं करोतु'' इति ।


बुबबुरः उक्तवाम् - "प्रभो ! मां

निकृष्टजीविनं मन्यन्ते जनाः । उच्छिष्ट-अमेध्य-भक्षणेन

माम् अस्पृश्यम् अपि मन्यन्ते te । परम् उच्छिष्टं खादन्

अपि मार्जार: तै: न तिरस्क्रियते । अत: मां मार्जार

करोतु'' इति ।

तत: मण्डूकः अवदत् - "भगवन् ! सर्वे

प्राणिन: ममोपरि निर्दयम् अत्याचारं कुर्वन्ति । सर्पः

Binayansa मां खादति । tatah पलायितुमपि मह्यं शक्तिः

न दत्ता भवता । विज्ञानच्छात्रा: अपि मां छिन्दन्ति ।

Atah मां बृहत्कायं करोतु'' इति ।

तत्पश्चात् विषवृक्षः अवदत् - "मम

सर्वावयवे विषं bhabati । अत: मां जातमात्रं दृष्ट्वा

जना:समूलम् उत्पाटयन्ति । तुलसी तु सर्वे पूजयन्ति ।

अत: मा तुलसीं करोतु" इति ।

Ebam सर्वेऽपि परगुणानां प्रशंसा कुर्वन्तः

स्वगुणविषये अतृप्तिम् असहिष्णुतां च प्राकटयन् ।

तत् श्रुत्वा ब्रह्मा उक्तवान्- भवताम् अपेक्षां पूरयितुमहम्

असमर्थः । सर्वे विष्णो: समीपं गच्छाम'' इति ।

Tatah सर्वेऽपि भगवत:विष्णो:समीपं गतवन्तः;

स्वकीयम् अभियोगं श्रावितवन्तश्च । सकलं वृत्तान्तं


Shrutwa भगवान् विष्णुः उक्तवान् - 'प्रकृते:

नियमानुसारमेव भवन्तः sarbe सृष्टाः । तदनुसारमेव

तिष्ठन्तु'' इति । sarbe एकस्वरेण अवदन् - "यदि वयं यथा

इच्छामः तथा परिवर्तनं न करिष्यति तर्हि भूलोकं न

गमिष्यामः एव” इति ।

Etat औद्धत्यपूर्ण वचनं श्रुत्वा विष्णु:-

"अस्तु, भवन्तः यथा इच्छन्ति तथा करिष्यामि । इदानीं

गच्छन्तु” इति उक्तवान् । santushtah ते सर्वे अपि

भूलोकमागतवन्तः ।

Tatah भूलोकवासिन: अनुभूतवन्तः यत् काका:

कोकिला: इव गायन्ति । गर्दभाः शृगाला: eba शब्दायन्ते

कुक्कुरेषु मार्जारगुणा: दृश्यन्ते । बृहत्कायान्मण्डूकान्

दृष्ट्वा सर्पाः भीत्या palayante । tulasi यः स्पृशति

कण्डूतिम्अनुभवति । nimba वृक्षाश्च मधुरायिताः ।

ईदृशं व्यतिक्रमं drushtaba भूलोकवासिनः

Bismitah ... अभवन् । परिवर्तनं सोढुं te न

सः


सज्जाः । te चिन्तितवन्तः यत् प्रलयकालः एव

सन्निहितः इति । te भगवन्तं प्रार्थितवन्तः - "भगवन् !

एतस्याः विपदः अस्मान् रक्षतु” eti । अन्यगुणान्

प्रदर्शयत: प्राणिनः brukshan सस्यानि च ते सर्वथा

तिरस्कृतवन्तः एव ।

Eban लोकानाम् अनादरपात्रतां गताः

विफलमनोरथाः te सर्वे पुनः विष्णोः समीपं गत्वा

निवेदितवन्त:- "हे भगवन् ! अस्माकमपराधं

Kshamyatu । अस्मभ्यं पूर्वगुणान् एव ददातु । bayam सृष्टे:

नियमं पालयन्त: यथापूर्वं जीवामः" इति ।

Etatt श्रुत्वा दयालुः विष्णुः उक्तवान्-

"समतारक्षणं सृष्टे: dharmah । गुणकर्मानुसारमेव भवन्तः

Sarbe सृष्टाः । अधुना भूलोकं गच्छन्तु । स्वगुणैः

बलीयांस: सन्तः सृष्टिप्रक्रियायां साहाय्यम् आचरन्तु''

इति ।

सर्वेऽपि सन्तुष्टाः सन्तः भूलोकमागताः ।

सृष्टिप्रक्रियायाम् आत्मानं योजितवन्तश्च ।



Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post