Sinha o sasak story in sanskrit .
कस्मिंश्चिद् वने भासुरको नाम सिंहः
प्रतिवसति स्म । अथासौ नित्यमेवानेकमृगशशकादीन्
व्यापादयति । अथान्येयुः तद्वनजा: सर्वे वराहादयो
मिलित्वा तमभ्युपेत्य प्रोचुः, "स्वामिन् ! किमनेन
सकलमृगवधेन नित्यमेव, यतस्तव एकेनाऽपि मृगेण
तृप्तिर्भवति । अद्य प्रभृति तवात्रोपविष्टस्य जातिक्रमण
प्रतिदिनमेको मृगो भक्षणार्थं समेष्यति । एवं कृते तव
तावत् प्राणयात्रा क्लेशं विना भविष्यति, अस्माकं च
पुनः सर्वोच्छेदनं न स्यात् ।”
अथ तेषां वचनमाकर्ण्य भासुरक आह,
"अहो ! सत्यमभिहितं भवद्भिः । परं यदि नित्यमेव
नैकः श्वापदः समागमिष्यति, तन्नूनं सर्वानपि
भक्षयिष्यामि ।' अथ ते तथैव प्रतिज्ञाय तत्रैव वने
निर्भया: पर्यटन्ति । एकश्च प्रतिदिनं क्रमेण याति ।
अथ कदाचित् जातिक्रमात् शशकस्य वार:
समायातः । स समस्तमृगैः प्रेरितोऽनिच्छन्नपि मन्दं
मन्दं गत्वा सिंहस्य वधोपायं चिन्तयन् वेलातिक्रम
कृत्वा व्याकुलितहृदयो यावत् गच्छति, तावन् मार्गे
कूपमेकं दृष्टवान् । यावत् स कूपोपरि याति, तावत्
कूपमध्ये आत्मनः प्रतिबिम्बं ददर्श । दृष्ट्वा च तेन
चिन्तितम्, “यत् भव्य उपायोऽस्ति । अहं भासुरकं
प्रकोप्य स्वबुद्ध्यास्मिन् कूपे पातयिष्यामि ।"
अथासौ दिनशेषे भासुरकसमीपं प्राप्तः ।
सिंहोऽपि वेलातिक्रमेण क्षुतक्षामकण्ठः कोपाविष्टः
व्यचिन्तयत्- "अहो, प्रातराहाराय निःसत्त्वं वनं मया
कर्तव्यम् ।'' एवं चिन्तयतस्तस्य शशको मन्दं मन्दं
गत्वा प्रणम्य तस्याग्रे स्थितः । अथ तं प्रज्वलितात्मा
भासुरको भर्त्सयमान आह, “रे शशकाधम !
एकस्तावत् त्वं लघुः, अपरतो वेलातिक्रमेण प्राप्तः ।
तस्मादपराधात् त्वां निपात्य प्रात: सकलान्यपि
मृगकुलानि उच्छेदयिष्यामि ।'
।
एतच्छुत्वा शशकः सविनयं प्रोवाच-
"स्वामिन् ! नापराधो मम न च सत्त्वानाम् । तच्छूयतां
कारणम् ।” सिंह आह, “सत्वरं निवेदय यावन् मम
"
दंष्ट्रान्तर्गतो न भविष्यसि ।'' शशक आह, “स्वामिन् !
समस्तमृगैरद्य जातिक्रमेण मम लघुतरस्य प्रस्ताव
विज्ञाय चतुर्भिः शशकैः सहाहं प्रेषितः ।
ततोऽहमागच्छन् मार्गे महता केनचिदपरेण सिंहेन गह्वरात्
निर्गत्याभिहितः, 'रे क्व प्रस्थिता यूयम् ? अभीष्टदेवतां
स्मरत ।"
ततो मयाभिहितम्, "वयं स्वामिनो
भासुरकसिंहस्य सकाशमाहारार्थं गच्छामः ।''
ततस्तेनाभिहितम्, “यद्येवं तर्हि मदीयमेतद् वनम् ।
मया सह समस्तैरपि श्वापदैवर्तितव्यम् । चौररूपी
स भासुरकः । अथ यदि सोऽत्र राजा ततो
विश्वासस्थाने चतुरः शशकानत्र संस्थाप्य तमाहूय
द्रुमागच्छ । यः कश्चिद् आवयोर्मध्यात् पराक्रमेण राजा
भविष्यति ।" ततोऽहं तेनादिष्ट :
स्वामिसकाशमभ्यागतः । एतद् वेलातिक्रमकारणम् ।
तदत्र स्वामी प्रमाणम् ।"
तच्छ्रुत्वा भासुरक आह, “भद्र ! यद्येवं तत्
सत्वरं दर्शय मे तं चौरसिंहं येनाहं मृगकोपं तस्योपरि
क्षिप्त्वा स्वस्थो भवामि ।' शशक आह, “स्वामिन् !
परं भवतः शत्रुः दुर्गाश्रयः । ततो दुर्गस्थो दुःसाध्यो
भवति रिपुः ।" भासुरक आह, “भद्र ! दुर्गस्थमपि
दर्शय तं चौरसिंहं येन व्यापादयिष्यामि ।"
'
अथ शशक आह, “यद्येवं तदागच्छतु
स्वामी ।" एवमुक्त्वाने चलितः । ततश्च
पूर्वदृष्टकूपमासाद्य स भासुरकमाह, “स्वामिन् ! कस्ते
प्रतापं सोढुं समर्थः ? त्वां दृष्ट्वा दूरतोऽपि स चौरसिंहः
प्रविष्टः स्वं दुर्गम् । तदागच्छतु, येन दर्शयामि ।'
भासुरक आह, “अरे दर्शय मे तद् दुर्गम् ।'
तदनु शशकेन दर्शित: कूपः । ततः सोऽपि मूर्खः सिंह:
बूपमध्ये आत्मप्रतिबिम्बं जलमध्यगतं दृष्ट्वा
सिंहनादमकरोत् । ततः प्रतिशब्देन कूपमध्यात्
द्विगुणतरो नादः समुत्थितः । अथ तेन तंशत्रु मत्वात्मानं
तस्योपरि प्रक्षिप्य प्राणा: परित्यक्ताः । शशकोऽपि
हृष्टमनाः सर्वमृगानानन्द्य तैः सह यथासुखं तत्र वने
न्यवसत् ।