Batika in sanskrit

Batika in sanskrit  .


वाटिका



देवदत्तस्य कन्या मालविका। सा अष्टमकक्षायां पठति? पाठशालायाः अल्पदूरे पुष्पवाटिका अस्ति ।मालविका वाटिकां गमिष्यति । वाटिकायां बालिकाभिः सह क्रीडिष्यति । वाटिकायाः मध्ये बहुविधाः लताः पुष्पवृक्षाः च भवन्ति । वृक्षाणांशाखासु विहया कूजन्ति । छायासु पथिकाः उपविशन्ति । लतासु भ्रमराः गुञ्जनं कुर्वन्ति । बालकानां बालिकानां च क्रीडायै दोलानां व्यवस्था भवति । दोलाभि: बालकाः बालिका: च आनन्दन क्रीडन्ति । सन्ध्यायां जनाः वाटिकायाः मध्ये भ्रमन्ति । आलोकमालया वाटिकायाः शोभा लोकानां चित्तं हरति । वयं वाटिकां गमिष्यामः ।



मातृभाषया अनुवाद कुरुत

(क) मालविका अष्टमकक्षायां पठति ?
(ख) वाटिकायां बालिकाभिः सह क्रीडिष्यति ।
(ग) वृक्षाणां शाखासु विहगा: कूजन्ति ।
मातृभाषया वाटिकाया: शोभा वर्णयत ।
संस्कृतभाषया उत्तर लिखत
(क) मालविका कम्य कन्या ?
ख) विहगाः कुत्र कूजन्ति ?
(ग) सन्ध्यायां जनाः कुत्र भ्रमन्ति ?

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post